प्रश्न निर्माणम्
प्रश्ननिर्माणाय विचारणीय
बिन्दवः –
१. सप्तककाराः –
कति = कितने,कितना,कितनी
कदा = कब
कुत्र = कहाँ
कथम् = कैसे
कुतः = कहाँ से
किमर्थम् = क्यों, किसलिए
कीदृश{कीदृशः(पु.) कीदृशी(स्त्री.) कीदृशम्(नपु.)} = किस तरह का,की के
२. ‘किम्’(क्या) शब्दरूपाणि –
‘किम्’ पुंल्लिङ्गे
एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कः
कौ
के
प्रथमा
कं
कौ
कान् द्वितीया
केन काभ्यां कैः तृतीया
कस्मै काभ्यां केभ्यः चतुर्थी
कस्मात् काभ्यां केभ्यः पञ्चमी
कस्य
कयोः केषाम् षष्ठी
कस्मिन् कयोः केषु सप्तमी
‘किम्’ स्त्रीलिङ्गे
एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
का
के
काः प्रथमा
कां
के
काः द्वितीया
कया
काभ्यां काभिः तृतीया
कस्यै
काभ्यां काभ्यः चतुर्थी
कस्याः काभ्यां काभ्यः पञ्चमी
कस्याः कयोः कासाम् षष्ठी
कस्यां कयोः
कासु सप्तमी
‘किम्’ नपुंसकलिङ्
एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
किम् के कानि प्रथमा
किम् के
कानि द्वितीया
शेष रूप पुंल्लिङ्गवत्
चलन्ति |
उदाहरणानि-
(१) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती |
लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती ?
(२) त्वं संकटात् माम् उद्धृतवती |
त्वं कस्मात् माम् उद्धृतवती ?
(३) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत् |
कया कोऽपि दरिद्रः नातिष्ठत् ?
(४) कल्पतरुः पृथिव्यां धनानि अवर्षत् |
कल्पतरुः कस्यां/कुत्र धनानि अवर्षत् ?
(५) अद्य विद्यालयं न गमिष्यामि |
अद्य कुत्र न गमिष्यामि ?
उचितप्रश्नवाचक शब्दैः
रिक्तस्थानानि पूरयत-
१) सलिले नौका सेलति |
सलिले का सेलति ?
२) पुष्पेषु चित्रपतङ्गाः डयन्ते |
कुत्र/केषु चित्रपतङ्गाः डयन्ते ?
३) उष्ट्रः पृष्ठे भारं वहति |
कः पृष्ठे भारं वहति ?
४) धावनसमये अश्वः किमपि न खादति |
कदा अश्वः किमपि न खादति ?
५) सूर्ये उदिते धरणी विहसति |
कदा धरणी विहसति ?
६) गुणाः गुणज्ञेषु गुणाः भवन्ति |
के गुणज्ञेषु गुणाः भवन्ति ?
७) नद्यः सुस्वादुतोयाः भवन्ति |
काः सुस्वादुतोयाः भवन्ति |
८) लुब्धस्य यशः नश्यति |
कस्य यशः नश्यति ?
९) मधुमक्षिका माधुर्यमेव जनयति |
का माधुर्यमेव जनयति ?
१०) तस्य मूर्ध्नि तिष्ठन्ति वायसाः |
तस्य कुत्र/कस्मिन् तिष्ठन्ति वायसाः ?
रेखांकितपदानां कृते
समुचितं प्रश्नवाचकपदं विलिख्य प्रश्नवाचकवाक्यनिर्माणं कुरुत -
१) जागरुकतया एव स्वच्छताभियानं गतिं प्राप्स्यति |
कया एव स्वच्छताभियानं गतिं प्राप्स्यति ?
२) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म |
धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म ?
३) वायुवेगः सर्वथा अवरुद्धः आसीत् |
कः सर्वथा अवरुद्धः आसीत् ?
४) सर्वे अवकरं संग्रह्य अवकरकण्डोले पातयन्ति |
सर्वे अवकरं संग्रह्य कुत्र/कस्मिन् पातयन्ति ?
५) अधुना
प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते |
अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते ?
६. उद्याने पक्षीणां कलरवं चेतः प्रसादयति |
उद्याने केषां कलरवं चेतः प्रसादयति ?
७. प्रकृत्याः सन्निधौ वास्तविकं सुखं
विद्यते |
कस्याः सन्निधौ वास्तविकं सुखं विद्यते ?
८. त्वं मानुषात् विभेषि |
त्वं कस्मात् विभेषि ?
९. पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम् आसीत् |
पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम् आसीत् ?
१०. सुधीः धर्मप्रदां वाचं वदति |
सुधीः कीदृशीं वाचं वदति ?
१५. वानरः आत्मानं वनराजपदाय योग्यः मन्यते |
वानरः आत्मानं कस्मै योग्यः मन्यते ?
१६. एतादृशी भयावहघटना गढ़वाल क्षेत्रे
घटिता |
कीदृशी भयावहघटना गढ़वाल क्षेत्रे घटिता ?
१७. विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते |
विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते ?
१८. तृणानाम् अग्निना सह विरोधो भवति |
केषाम् अग्निना सह विरोधो भवति ?
१९. गुणी गुणं जानाति |
कः गुणं जानाति ?
२०. अश्वः धावने वीरः भवति |
अश्वः कस्मिन् वीरः भवति ?
२१. आलस्यं मानुष्याणाम् रिपुः भवति |
आलस्यं केषां रिपुः भवति ?
२२. पशुः अपि उदीरितम् अर्थं ग्रह्णाति |
पशुः अपि कीदृशम् अर्थं ग्रह्णाति ?
२३. पिकः वसन्तस्य गुणं जानाति |
पिकः कस्य गुणं जानाति ?
२४. अस्तमये सविता रक्तः भवति |
कदा सविता रक्तः भवति ?
२५. महतां सदैव एकरूपता भवति |
केषां सदैव एकरूपता भवति ?
संस्कृत में गीत सुनें-
टिप्पणियाँ
एक टिप्पणी भेजें
PLEASE PLEASE PLEASE