अलंकाराः
अलङ्कारा:
१. अनुप्रासः –
लक्षणम्- “अनुप्रासः शब्दसाम्यं वैषम्येsपि स्वरस्य यत् |”
उदाहरणम्-
(1)
लताकुञ्जं गुञ्जन्
मदवदलिपुञ्जं चपलयन् ,
समालिङ्गन्नङ्गं
द्रुततरमनङ्गं प्रबलयन् |
मरुत् मन्दं मन्दं
दलितमरविन्दं तरलयन् ,
रजोवृन्दं बिन्दन् किरति
मकरन्दं दिशि दिशि ||
.यमकः-
लक्षणम्-
सत्येर्थे पृथगर्थायाः स्वर
व्यञ्जन संहतिः |
क्रमेण तेनैवावृत्तिर्यमकं
विनिगद्येते ||
उदाहरणम् –
नवपलाशपलाशवनं पुरा ,स्फुटपरागपराग पङ्कजम् |
मृदुलतान्त लतान्तमलोकयत् ,स सुरभिं सुरभिं सुमनोभरैः|| --- (माघः शिशुपालवधंम् 6-2)
आवृत्त व्यञ्जनसमुदायस्य
तिस्रः स्थितयः भवन्ति –
1.कुत्रचित् द्वौ सार्थकौ
भवतः |
2.कुत्रचित् द्वौ एव
निरर्थकौ |
3.क्वचित् एकः सार्थकः एकः
च निरर्थकः |
. श्लेषः(बहुविधः)– (विश्वनाथानुसारं अष्ट प्रकारा: सन्ति )
लक्षणम् – श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष उच्यते |
श्लेषस्य त्रयः भेदाः –
अ. अभङ्ग:-उच्छलद् भूरिकीलाल शुशुभे
वाहिनीपतिः |
ब. सभङ्गः- अजरामरता कस्य नायोध्येव पुरी प्रिया |
स. उभयः-
उदाहरणम् –
(1)
प्रतिकूलतामुपगते हि विधौ ,
विफलत्वमेति बहुसाधनता |
अवलम्बनाय दिनभर्तुर्भू-
न्न पतिष्यत: करसहस्रमपि ||
(2)
रक्त च्छदत्वं विकचाभजन्तो ,
नालं जलै: सङ्गतमादधाना |
निरस्य पुष्पेषु रुचिं
समग्रां,
पद्माविरेजुः श्रमणा यथैवः ||
(3)
पृथुकार्तस्वरपात्रं भूषित
निः शेषपरिजनं देवः |
विलसत्करेणु गहनं संप्रति
सममावयोः सदनम् ||
- (शिशुपालवधम् )
(4)
नृपेण कन्यां जनकेन
दित्सिसाम्-
अयोनिजां लम्भयितुं
स्वयंवरे |
द्विजःप्रकर्षेण स
धर्मनन्दनः ,
सहानुजस्तां भुवमप्यनीयत ||
-(राघवपाण्डवीयम्)
(5)
इतीरिता पत्ररथेन तेन ,
ह्रीणा च हृष्टा च बभ्राण भैमी |
चेतो नलं कामयते मदीयं ,
नान्यत्र कुत्रापि च
साभिलाषम् ||
- (नैषधीयचरितम्)
.उपमा –
लक्षणम् – “प्रस्फुटम् सुन्दरं
साम्यमुपमेत्यभिधीयते|”
त्रयः भेदाः भवन्ति –
अ.क्रियागतोपमा -
उदाहरणम्-
(१)
क्षणात् प्रबोधमायाति लङ्घयते तमसा पुनः |
निर्वास्यतः प्रदीपस्य
शिखेव जरतो मतिः ||
ब.गुणगतोपमा -
उदाहरणम्-
(२)
हरस्तुकिञ्चित् परिलुप्त
धैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः |
उमामुखे बिम्बफलाधरोष्ठे
व्यापारमास विलोचनानि ||
-(कुमारसंभवम्)
स.उभयगतोपमा -
उदाहरणम्-
(३)
स्नपयति हृदयेशं
स्नेह-निष्यन्दिनी ते |
धवल वहल
मुग्ध-दुग्ध-कुल्येव दृष्टिः ||
-(उत्तररामचरित )
(४)
गुणदोषौ बुधौ गृह्णन्
इन्दुक्ष्वेडाविवेश्वरः |
शिरसा श्लाघते पूर्वं परं
कण्ठे नियच्छति ||
(५)
अव्यक्तरेखामिव चन्द्रलेखां,
पांसु प्रदिग्धामिव
हेमरेखाम् |
क्षत प्ररुढामिव वर्णरेखां,
वायु प्रभुग्नामिव
मेघरेखाम् ||
(६)
सञ्चारिणी दीपशिखेव रात्रौ ,
यं यं व्यतीयाय पतिम्वरा सा
|
नरेन्द्रमार्गाट्ट इव
प्रपेदे,
विवर्णभावं स स भूमिपालः || -(रघुवंशः)
.मालोपमा-
लक्षणम्-
मालोपमा यदेकस्योपमानं बहु
दृश्यते |
उदाहरणम् –
प्रभामहत्या शिखयेव दीपः,
त्रिमार्गयेव त्रिदिवस्य
मार्गः |
संस्कारवत्येव गिरा मनीषी,
तया स पूतश्च विभुषितश्च ||(कुमार.)
.रूपकम्-
लक्षणम्-
तद्रूपकमभेदो य
उपमानोपमेययोः |
उदाहरणम्-
(१)
संसारविषवृक्षस्य द्वे एव
रसवत् फले |
काव्यामृतरसास्वादः सङ्गमः
सज्जनैः सह ||
(२)
बुद्धिशस्त्रः प्रकृत्यङ्गो
घनसंवृत्तिकञ्चुकः |
चारेक्षणो दूतमुखः पुरुषः
कोऽपि पार्थिवः ||(माघ)
(३)
पर्याप्त
पुष्पस्तबकस्तानाभ्यां,
स्फुरत्प्रवालोष्ठमनोहराभ्यः
|
लतावधुभ्यस्तरवोऽप्यवापुः,
विनम्रशाखा भुजबन्धनानि || (कुमार.)
(४)
करोति कंसादिमहीभृतां वधात्,
जनो मृगाणामिव यस्तवस्तवम् |
हरे हिरण्याक्षपुरः
सरासुरासुर-
द्विपद्विषः प्रत्युत सा
तिरस्क्रिया ||
(५)
अज्ञानतिमिरान्धस्य
ज्ञानाञ्जनशलाकया |
उत्प्रेक्षा-
लक्षणम्-
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् |
उदाहरणम्-
(१)
अर्थो हि कन्या परकीय एव ,
तामद्य संप्रेष्य
परिग्रहीतुम् |
जातो ममायं विशदः प्रकामं,
प्रत्यर्पितन्यास
इवान्तरात्मा ||
अ. वस्तूत्प्रेक्षा -
(२)
लिमतीव तमोऽङ्गानि, वर्षतीवाञ्जनं नभः |
असत्पुरुषसेवेव
दृष्तिर्विफलतां गता ||
ब.हेतूत्प्रेक्षा -
(३)
परेभर्तुमहिषोऽमुनाधनु-
र्विधातु मुखातविषाणमण्डलः |
हृतेऽपि भारे
महतस्त्रपाभरा-
दुवाहदु:खेन भृशानतं शिरः ||
स.फलोत्प्रेक्षा-
(४)
प्रायोब्जं तवत्पदेनैक्यं
प्राप्तुं तोये तपस्यति |
(५)
सुप्तैकहंसं कुमुदैरूपेतं,
महाह्रदस्थं सलिलं विभाति |
घनैर्विमुक्तं
निशिपूर्णचन्द्रं ,
तारागणाकीर्णमिवान्तरिक्षम्
|| (कि.काण्ड रामायण)
(७)
कुमारः आत्मनः पुनर्भावमिव
मेने |
(८)
तन्वङ्ग्या स्तनयुग्मेन
मुखं न प्रकटीकृतम् |
हाराय गुणिने स्थानं न
दत्तमिति लज्जया ||
.अतिशयोक्तिः –
लक्षणम्-
सिद्धत्वेऽध्यवसायस्यातिशयोक्तिनिगद्यते
|
(१)
कमलमनम्भसि कमले च कुवलये
तानि कनकलतिकायाम् |
सा च
सुकुमार-सुभगेत्युत्पात-परम्परा केयम् ||
(२)
सौधाग्राणि पुरस्यास्य
स्पृशन्ति विधुमण्डलम् |
(३)
दुष्यन्तेनाहितं तेजो
दधानां भूतये भुवः |
अवेहि तनयां
ब्रह्मन्नग्निगर्भां शमीमिव ||
(४)
अकालजलदावली किरतु नाम
मुक्तावली-
रपर्वणिविधुन्तुदस्तुदतु
हन्त ! शीतद्युतिम् |
इदन्तु महदद्भुतं यदनपायि विद्युल्लता-
ऽवलम्बि कनकाचलद्वयमधोमुखं
नृत्यति ||
(५)
दृष्टिस्तृणीकृत
जगत्त्रयसत्त्वसारा-,
धीरोद्धता नमयतीव
गतिर्धरित्रीम् |
कौमारकेऽपि गिरिवद् गुरुतां
दधान:,
वीरोरस किमयमेत्युत दर्प एव
|| (उत्तर.)
(६)
अन्यदेवाङ्गलावण्यम् अन्याः सौरभसम्पदः |
तस्याः पद्मपलाशाक्ष्या:
सरसत्वमलौकिकम् |
(७)
पुष्पप्रवालोपहितं यदि
स्यात् ,
मुक्ताफलं वा
स्फुटविद्रुमस्थम् |
ततोऽनुकुर्याद् विशदस्य
तस्या:,
ताम्रौष्ठपर्यस्तरुच
स्मितस्य || (कुमार.)
(८)
उदेति पूर्वं कुसुमं ततः
फलं ,
घनोदयः प्राक् तदनन्तरं पयः
|
निमित्तनैमित्तिकयोरयं
क्रम-
स्तव प्रसादस्यपुरस्तु
सम्पदः ||(अभिज्ञान.)
(९)
सममेव समाक्रान्तं द्वयं
द्विरदगामिना |
तेन सिंहासनं
पित्र्यमखिलञ्चारिमण्डलम् || (रघु.)
(१०)
भारतस्यास्य प्रासादा:
स्पृशन्ति |
.व्यतिरेकः –
लक्षणम्- उपमानाद्यदन्यस्य
व्यतिरेकः स एव सः |
उदाहरणम्-
(१)
दिशि मन्दायते तेजो
दक्षिणस्यां रवेरपि |
तस्यामेव रघोः पाण्ड्या,प्रतापं न विषेहिरे ||
(२)
कृताः शरण्यं हरिणा
तवासुराः,
शरासनं तेषु विकृष्यतामिदम्
|
प्रसादसौम्यानि सतां
सुहृज्जने ,
पतन्ति चक्षूंषि न दारुणा
शराः ||
(१)
चन्द्रं गता पद्मगुणान् न
भुङ्क्ते ,
पद्माश्रिता
चान्द्रमसीमभिख्याम् |
उमामुखन्तु प्रतिपद्यलोला,
द्विसंश्रयां प्रीतिमवाप
लक्ष्मी: ||
प्रतिवस्तूपमा-
लक्षणम्-
उदाहरणम्-
(१)
तापेन भ्राजते सूर्यः
शूरश्चापेन शोभते |
(२)
धन्यासि वैदर्भि !
गुनैरुदारै-
र्यया समाकृष्यत नैषधोऽपि |
अतः स्तुतिः का खलु
चन्द्रिकायाः
यदब्धिमप्युत्तरलीकरोति ||
(४)
मधुश्च ते मन्मथ !
साहचर्य्या-
दसावनुक्तोऽपि सहाय एव |
समीरणो नोदयिता भवेति ,
व्यादिश्येते केन हुताशनस्य
||(कुमार.)
निर्दशनालङ्कार :
लक्षणम्-
उदाहरणम् –
(१)
क्व सूर्यप्रभवो वंश: , क्वचाल्पविषयामतिः |
तितीर्षूदुस्तरं
मोहादुडुपेनास्मि सागरम् ||(रघु.)
(२)
अभ्युन्नताङ्गुष्ठनखप्रभाभि
:,
निक्षेपणाद्
रागमिवोद्गिरन्तौ |
आजह्रतुस्तच्चरणौ पृथिव्यां
स्थालारविन्दश्रियमव्यवस्थाम्
||(कुमार.)
दृष्टान्त:-
लक्षणम्-
दृष्टान्तस्तु सधर्मस्य
वस्तुनः प्रतिबिम्बनम् |
उदाहरणम्-
(१)
विपक्षमखिलीकृत्य प्रतिष्ठा
खलु दुर्लभा |
अनीत्वा पङ्कतां धूलिमुदकं
नावतिष्ठते ||
(२)
स्वसुखनिरभिलाषः खिद्यसे
लोकहेतोः,
प्रतिदिनमथवा ते वृत्तिरेवं
विधैव |
अनुभवति हि मूर्ध्ना
पादपस्तीव्रमूष्णं,
शमयति परितापं छायया
संश्रितानाम् ||
(३)
नैतल्लघ्वपि भूयस्या वचो
वाचातिशय्यते |
इन्धनौघधगप्यग्निः तित्वषा
नात्येति पूषणम् ||(माघः)
(४)
अविदितगुणापि सत्कविः
भणितिः,
कर्णेषु वमति मधुधाराम् |
अनधिगत परिमलाऽपि हि ,
हरति दृशं मालती माला ||
(५)
कृतञ्च गर्वाभिमुखं
मनस्त्वया,
किमन्यदेवं निहताश्च नोऽरयः
|
तमांसि तिष्ठन्ति हि
तावदंशुमा-
न्न यावदायात्युदयाद्रि
मीलताम् ||
(६)
कामं नृपाः सन्तु
सहस्रशोऽन्ये,
राजन्वतीमाहुरनेन भूमिम् |
नक्षत्रताराग्रहसङ्कुलापि ,
ज्योतिष्मती चन्द्रमसैव
रात्रिः ||
अर्थान्तरन्यासः –
लक्षणम् –
उदाहरणम्-
(१)
हनुमानब्धिमतरद् दुष्करं
किं महात्मनाम् |
(२)
बृहत्सहाय: कार्यान्तं
क्षोदीयानपि गच्छति |
सम्भूयाम्बोधिमभ्येति
महानद्या नगापगा ||(शिशुपालवधः माघः)
(३)
अनन्तरत्नप्रभवस्य यस्य ,
हिमं न सौभाग्यविलोपि जातम्
|
एको हि दोषो गुणसन्निपाते,
निमज्जतीन्दोः
किरणेष्विवाङ्कः ||(रघुवंशः.)
(४)
यावदर्थपदां वाचमेवादाय
माधवः |
विरराम महीयांस प्रकृत्या
मितभाषिणः ||(माघः)
(५)
इत्थामाराध्यमानोऽपि
क्लिश्नाति भुवनत्रयम् |
शाम्येत् प्रत्यपकारेण
नोपकारेण दुर्जनः ||(कुमारसंभवः)
वैधर्म्यद्वारा विशेषार्थेन सामान्यार्थस्य समर्थनम्-
(६)
गुणानामेव दौरात्म्याद्
धुरिधुर्यो न भुज्यते |
असञ्जातकिणसकन्धः सुखं
स्वपिति गौर्गलिः ||
तुल्ययोगिता –
लक्षणम् –
पदार्थानां
प्रस्तुतानामन्येषां वा यदा भवेत् |
एक धर्माभिसम्बन्धः
स्यात्तदा तुल्ययोगिता ||
उदाहरणम्-
(१)
यं सर्वशैलाः परिकल्प्य
वत्सं,
मेरौ स्थिते दोग्धरि
दोहदक्षे |
भास्वन्ति रत्नानि
महौषधीश्च,
पृथूपदिष्टां
दुदुहुर्धरित्रीम् ||
-(कुमारसंभवम्)
(२)
नागेन्द्रहस्तास्त्वचि
कर्कशत्वा-
देकान्त शैत्यात्
कदलीविशेषः |
लब्ध्वापि लोके परिणाहि
रूपं ,
जातास्तदूर्वोरूपमान
बाह्याः ||
काव्यलिङ्ग :-
लक्षणम्-
हेतोर्वाक्य पदार्थवे
काव्यलिङ्ग निगद्यते |
उदाहरणम्-
(१)
ईषदीषच्चुम्बितानि भ्रमरै: , सुकुमारकेसरशिखानि |
अवतंसयन्ति दयमानाः, प्रमदाः शिरीषकुसुमानि ||
(२)
रे हस्तदक्षिण ! मृतस्य
शिशोर्द्विजस्य ,
जीवातवे विसृज शूद्रमुनौ
कृपाणम् |
रामस्य गात्रमसि
दुर्भरगर्भखिन्न-
सीताविवासनपटो करुणा
कुतस्ते ||
-(उत्तररामचरितं)
दीपकम्-
लक्षणम्-
अप्रस्तुतप्रस्तुतयोर्दीपकन्तु
निगद्यते |
उदाहरणम्-
(१)
मेधां बुधः
सुधामिन्दुर्बिभर्ति वसुधां भवान् |
(२)
बलावलेपादधुनापि पूर्ववत् ,
प्रबाध्यते तेन
जगज्जिगीषुणा |
सतीव योषित्प्रकृतिः
सुनिश्चला ,
पुमांसमभ्येति
भवान्तरेष्वपि ||
(३)
दूरं समागतवति त्वयि
जीवनाथे ,
भिन्ना मनोभवशरेण तपस्विनी
सा |
उत्तिष्ठति स्वपिति वासगृहं
त्वदीय-
मायाति याति हसति श्वसिति
क्षणेन ||
(५)
सम्पदा सुस्थिरम्मन्यो भवति
स्वल्पयापि यः |
कृतकृत्यो विधिर्मन्ये न
वर्धयति तस्य ताम् ||(माघः)
संदेहः –
(१)शुद्धसन्देहः (२) निश्चयगर्भः संदेहः(३)
निश्चयान्त संदेहः
लक्षणम्-
संदेह प्रकृतेऽन्यस्य संशयः
प्रतिभोत्थितः |
भेदोक्तौ तदनुक्तौ च
द्विधाऽसौ परिकीर्तितः ||
उदाहरणम्-
(१)
इदं कर्णोत्पलं चक्षुरिदं
वेति विलासिनी |
न निश्चिनोति हृदयं किन्तु
दोलायते मनः ||
(४)
पङ्कजं वा
सुधांशुर्वेत्यस्माकं तु न निर्णयः |
(५)
गतं तिरचीनमनूरुसारथेः, प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः |
पतत्यधो धाम विसारि सर्वतः,किमेतदित्याकुलमीक्षितं जनैः ||
भ्रान्तिमान्-
लक्षणम्-
साम्यादतास्मिँस्तद् बुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः |
उदाहरणम्-
(१)
महाराज श्रीमन् जगति यशसा
ते धवलिते,
पयः पारावरं परमपुरुषोऽयं
मृगयते |
कपर्दी कैलासं करिवरमथायं
कुलिशभृत् ,
कलानाथं राहुः कमलभवनो
हंसमधुना ||
-(भोजस्य प्रशंसायाम् )
(२)
अयं प्रमत्तमधुपस्त्वन्मुखं
वेत्ति पङ्कजम् |
(३)
आत्मानमेव जलधेः
प्रतिबिम्बताङ्ग-
भूमौ महत्यभिमुखापतितं
निरीक्ष्य |
क्रोधादधावदपभीरभिहन्तुमन्य-
नागाभियुक्तः इव युक्तमहो
महेभः ||
अपह्नूतिः –
लक्षणम्-
प्रकृतं
प्रतिषिध्यान्यस्थापनं स्यादपह्नूतिः |
उदाहरणम्-
(१)
नेदं नभो मण्डलमम्बुराशि-
र्नैताश्च तारानव फेनभङ्गाः|
नायं शशी कुण्डलितः
फणीन्द्रो
नासौ कलङ्कः शयितो मुरारिः ||
(२)
दशानन-किरीटेभ्यस्तत्क्षणं
राक्षसश्रियः |
मणिव्याजेन पर्यस्ताः
पृथिव्यामश्रुबिन्दवः ||
स्वभावोक्तिः-
लक्षणम्- स्वभावोक्तिस्तथा
चारु यथावद्वस्तुवर्णनम् |
उदाहरणम्-
(१)
ग्रीवाभङ्गाभिरामं
मुहुरनुपतति स्यन्दने बद्धदृष्टिः,
पश्चार्धेन प्रविष्टः
शरपतनभयाद् भूयसा पूर्वकायम् |
दर्भैरर्धावलीढै: श्रमविवृतमुख
भ्रंशिभिः कीर्णवर्त्मा,
पश्योदग्रप्लुतत्वाद् वियति
बहुतरं स्तोकमुर्व्यां प्रयाति ||
(२)
यदालोके सूक्ष्मं व्रजति
सहसा तद् विपुलतां ,
यदर्धे विच्छन्नं भवति
कृतसन्धानमिव तत् |
प्रकृत्या यत् वक्रं तदपि
समरेखं नयनयोः ,
न मे दूरे किञ्चित् क्षणमपि
न पार्श्वे रथज्वात् ||
टिप्पणियाँ
एक टिप्पणी भेजें
PLEASE PLEASE PLEASE